एकेन आखेटकेन वने विहरता
वृक्षस्थौ द्वौ शुकशावकौ
दृष्टौ । ततस्तेन
निःशब्दं वक्षम् आरुह्य तौ
धृतौ । पश्चात्
स तयोः विक्रयाय
आपणं गतः|
तत्र होराद्वयस्य भ्रमणपरिश्रमेण स एकं शुकं पुण्डरीकनाम्नः आचार्यस्य हस्ते विक्रीतवान् । अपरं कश्चित् यवनः अक्रीणात् । यवनः मद्यपः द्यूतप्रियश्चास
ीत् । तस्य गृहे सर्वे सदस्याः परस्परं दुर्व्यवहारं कुर्वन्ति स्म । तत्र परस्परताडनं भर्त्सनं अपशब्दप्रयोगश्च सामान्या प्रवृत्तिः आसीत् ।
शुकः प्रकृत्या अनुकरणशीलो भवति । यवनस्य शुकोSपि दुर्वचनप्रयोगे निष्णातो जातः । यदा स गालिं ददाति, सर्वे हसन्ति स्म, अपशब्दानाम् उच्चारणाभ्यासम् अपि कारयन्ति स्म ।
प्रथमः शुकः एकं गुरुकुलं नीतः । तत्र आचार्यपुण्डरीकः शिष्यान् वेदम्, उपनिषदम्, गीताम्, व्याकरणशास्त्रम् आदि अध्यापयति स्म । शुकः अपि श्लोकानां मन्त्राणां च पाठं श्रुत्वा तदेव ब्रूते स्म ।
एवं तौ शुकौ भिन्ने वातावरणे वस्तुम् आरभेताम् । पुनः कदाचित् तौ शुकौ केनापि अपहृत्य विक्रीतौ । अधुना तौ कस्यचित् महाधनस्य जनस्य भवनं प्रापतुः । एकस्मात् शुकात् मन्त्रान् मांगलिकपद्यानि च निशम्य स धनिप्रवरः अतितरां प्रासीदत्, किन्तु यदा अपरस्मात् शुकात् सः अपशब्दान् अभद्रां वाचं चाशृणोत्, स सेवकं तं शुकं हन्तुम् आदिशत् । तदैव प्रथमः शुकः प्राह---"नायं हन्यतां, नायं हन्यताम् । यतः एष संगस्य प्रभावः शृणु तावत्---
"अहं मुनीनां वचनं शृणोमि
शृणोति चासौ यवनस्य वाक्यम् ।
न चास्य दोषो न च मे गुणोSयम्
संसर्गजा दोषगुणा भवन्ति ।।"

No comments:
Post a Comment