Tuesday, July 17, 2018

संस्कृत मे गंगा नदी पर निबंध -- गङ्गानदी

          
भारतदेशः प्रकृतिसम्पदा समृद्धः अस्ति वयम् अत्र प्रकृतिं पञ्जमहाभूतानि इति कथयामः। ये अस्माकम् उपकारं कुर्वन्ति तेषां कृतज्ञता समर्पणम् अस्माकं कर्तव्यं भवति तथैव जलं वायुः अग्निः इत्यादयः अस्मान् निरन्तरम् उपकुर्वन्ति अतः तान् देवत्वेन भावयन् नमस्काररूपेण वयं कार्तज्ञ्यं समर्पयामः एतादृशस्य पुण्यजलस्य स्रोताः भारतीयाः पुण्यनद्यः तासु महानदीषु अन्यतमा भागीरथी त्रिपथगा जाह्नवी इति कथ्यमाना नदी गङ्गा प्राचीनकालात् अस्माकं देशे पवित्रभावनयापूज्यमाना एषा नदी इदानीं प्रदूषिता अस्ति विष्णोः पादकमलात् उद्भूता गङ्गा शिवस्य शिखाद्वारा भूलोके पतित्वा प्रवहति इति भारतीयानां विश्वासः अतः गङ्गास्नानेन पापनाशनं भवति इति भावनया प्रतिदिनं २०लक्षजनाः पुण्यस्नानं कुर्वन्ति जनानां धार्मिकाध्यात्मिकेन विश्वासेन इयं अस्मिन् विश्वे एव पुण्यतमा इति ख्याता एतादृशी नदी मानवानां दुराशायाः निर्लक्षस्य कारणेन तन्नाम नगरीकरणेन नदीतीरे अत्यधिकयन्त्रागाराणां स्थापनेन गङ्गायाः जलं मलिनं सञ्जातम् एतस्य जलस्य पानेन स्नानेन वा मानवाः रोगबाधिताः भवन्ति एव अस्मिन् जले कालरा डिसेण्ट्री इत्यादिरोगोत्पादकाः अंशाः सन्तीति भारतीयविज्ञानिनः धार्मिकनायकाः मिलित्वा संशोध्य जनान् प्रबोधितवन्तः पुनः अस्मिन् जले अन्यनदीनाम् अपेक्षया अधिकः आम्लजनकः अस्ति यः मानवशरीरास्य अनुकूलकरः अनेन जलपानेन मानवः ज्वरबाधितः भवति इति अतः मानवः गङ्गाजलं पुण्यभावनया आबहोः कालत् तीर्थम् इव किञ्चिदेव पिबन् जीवति भारतीयसर्वकारेण गङ्गायाः पुनः शुद्धीकरणार्थं कोट्याधिकं धनं व्ययितम् सा परियोजना इदानीमपि चलन्ती अस्ति किन्तु यावत् वयम् आधुनिकाः नागरिकाः मानवाः जागरिताः भवेम तावत् समस्या भवति एव गङ्गनदीतीरप्रदेशे विद्यमानानां यन्त्रागाराणां स्वामिनः अशुद्धजलं शुद्धीकृत्य त्यजेयुः सार्वजनिकाः व्यर्थवस्तूनि नद्यां प्रक्षिपेयुः नगरीकरणानाम् अथवा अन्यव्याजेन अरण्यनाशः सहनीयः एतेषां रक्षणार्थं प्रशासनेन नियमाः करणीयाः अनुष्ठाने गभीरक्रमः पालनीयः भारतसर्वकारेण एवं चेत् अस्माकं परमपावनी गङ्गा पुण्यनदी रूपेण तिष्ठेत् तुङ्गतरङ्गे गङ्गे वन्दे गङ्गामातरम्

No comments:

Post a Comment