Wednesday, July 18, 2018

सङ्गत्याः प्रभावः

एकेन आखेटकेन वने विहरता वृक्षस्थौ द्वौ शुकशावकौ दृष्टौ । ततस्तेन निःशब्दं वक्षम् आरुह्य तौ धृतौ । पश्चात् स तयोः विक्रयाय आपणं गतः|
तत्र होराद्वयस्य भ्रमणपरिश्रमेण स एकं शुकं पुण्डरीकनाम्नः आचार्यस्य हस्ते विक्रीतवान् । अपरं कश्चित् यवनः अक्रीणात् । यवनः मद्यपः द्यूतप्रियश्चास
ीत् । तस्य गृहे सर्वे सदस्याः परस्परं दुर्व्यवहारं कुर्वन्ति स्म । तत्र परस्परताडनं भर्त्सनं अपशब्दप्रयोगश्च सामान्या प्रवृत्तिः आसीत् ।
शुकः प्रकृत्या अनुकरणशीलो भवति । यवनस्य शुकोSपि दुर्वचनप्रयोगे निष्णातो जातः । यदा स गालिं ददाति, सर्वे हसन्ति स्म, अपशब्दानाम् उच्चारणाभ्यासम् अपि कारयन्ति स्म ।
प्रथमः शुकः एकं गुरुकुलं नीतः । तत्र आचार्यपुण्डरीकः शिष्यान् वेदम्, उपनिषदम्, गीताम्, व्याकरणशास्त्रम् आदि अध्यापयति स्म । शुकः अपि श्लोकानां मन्त्राणां च पाठं श्रुत्वा तदेव ब्रूते स्म ।
एवं तौ शुकौ भिन्ने वातावरणे वस्तुम् आरभेताम् । पुनः कदाचित् तौ शुकौ केनापि अपहृत्य विक्रीतौ । अधुना तौ कस्यचित् महाधनस्य जनस्य भवनं प्रापतुः । एकस्मात् शुकात् मन्त्रान् मांगलिकपद्यानि च निशम्य स धनिप्रवरः अतितरां प्रासीदत्, किन्तु यदा अपरस्मात् शुकात् सः अपशब्दान् अभद्रां वाचं चाशृणोत्, स सेवकं तं शुकं हन्तुम् आदिशत् । तदैव प्रथमः शुकः प्राह---"नायं हन्यतां, नायं हन्यताम् । यतः एष संगस्य प्रभावः शृणु तावत्---
"अहं मुनीनां वचनं शृणोमि
शृणोति चासौ यवनस्य वाक्यम् ।
न चास्य दोषो न च मे गुणोSयम्
संसर्गजा दोषगुणा भवन्ति ।।"

Tuesday, July 17, 2018

संस्कृत मे गंगा नदी पर निबंध -- गङ्गानदी

          
भारतदेशः प्रकृतिसम्पदा समृद्धः अस्ति । वयम् अत्र प्रकृतिं पञ्जमहाभूतानि इति कथयामः। ये अस्माकम् उपकारं कुर्वन्ति तेषां कृतज्ञता समर्पणम् अस्माकं कर्तव्यं भवति । तथैव जलं वायुः अग्निः इत्यादयः अस्मान् निरन्तरम् उपकुर्वन्ति अतः तान् देवत्वेन भावयन् नमस्काररूपेण वयं कार्तज्ञ्यं समर्पयामः । एतादृशस्य पुण्यजलस्य स्रोताः भारतीयाः पुण्यनद्यः । तासु महानदीषु अन्यतमा भागीरथी त्रिपथगा जाह्नवी इति कथ्यमाना नदी गङ्गा । प्राचीनकाल‌ात् अस्माकं देशे पवित्रभावनयापूज्यमाना एषा नदी इदानीं प्रदूषिता अस्ति । विष्णोः पादकमलात् उद्भूता गङ्गा शिवस्य शिखाद्वारा भूलोके पतित्वा प्रवहति इति भारतीयानां विश्वासः । अतः गङ्गास्नानेन पापनाशनं भवति इति भावनया प्रतिदिनं २०लक्षजनाः पुण्यस्नानं कुर्वन्ति । जनानां धार्मिकाध्यात्मिकेन विश्वासेन इयं अस्मिन् विश्वे एव पुण्यतमा इति ख्याता । एतादृशी नदी मानवानां दुराशायाः निर्लक्षस्य च कारणेन तन्नाम नगरीकरणेन नदीतीरे अत्यधिकयन्त्रागाराणां स्थापनेन च गङ्गायाः जलं मलिनं सञ्जातम् । एतस्य जलस्य पानेन स्नानेन वा मानवाः रोगबाधिताः भवन्ति एव । अस्मिन् जले कालरा डिसेण्ट्री इत्यादिरोगोत्पादकाः अंशाः सन्तीति भारतीयविज्ञानिनः धार्मिकनायकाः च मिलित्वा संशोध्य जनान् प्रबोधितवन्तः । पुनः च अस्मिन् जले अन्यनदीनाम् अपेक्षया अधिकः आम्लजनकः अस्ति यः मानवशरीरास्य अनुकूलकरः न । अनेन जलपानेन मानवः ज्वरबाधितः भवति इति । अतः मानवः गङ्गाजलं पुण्यभावनया आबहोः कालत् तीर्थम् इव किञ्चिदेव पिबन् जीवति । भारतीयसर्वकारेण गङ्गायाः पुनः शुद्धीकरणार्थं कोट्याधिकं धनं व्ययितम् । सा परियोजना इदानीमपि चलन्ती अस्ति । किन्तु यावत् वयम् आधुनिकाः नागरिकाः मानवाः जागरिताः न भवेम तावत् समस्या भवति एव । गङ्गनदीतीरप्रदेशे विद्यमानानां यन्त्रागाराणां स्वामिनः अशुद्धजलं शुद्धीकृत्य त्यजेयुः । सार्वजनिकाः व्यर्थवस्तूनि नद्यां न प्रक्षिपेयुः । नगरीकरणानाम् अथवा अन्यव्याजेन अरण्यनाशः न सहनीयः । एतेषां रक्षणार्थं प्रशासनेन नियमाः करणीयाः अनुष्ठाने च गभीरक्रमः पालनीयः भारतसर्वकारेण । एवं चेत् अस्माकं परमपावनी गङ्गा पुण्यनदी रूपेण तिष्ठेत् । तुङ्गतरङ्गे गङ्गे । वन्दे गङ्गामातरम् ।